।। झर झर आयान्ति वर्षाधाराः ।।
श्रीहरि
श्रीहरि
झर झर आयान्ति वर्षाधाराः
अत्र प्रसन्नाः सर्वे जीवाः
वृक्षैः प्राप्तं नवजीवनं
नृत्यन्ति मोदेन बालाः सततम्
झर झर आयान्ति वर्षाधाराः
अत्र प्रसन्नाः सर्वे जीवाः
वृक्षैः प्राप्तं नवजीवनं
नृत्यन्ति मोदेन बालाः सततम्
झर झर आयान्ति वर्षाधाराः
कृष्णा मेघाः पश्य आकाशे
धडाम् धुडुम् धडाम् धुडुम् गर्जन्ति ते
जलेन क्लिन्नं जातमङ्गं
धो धो धो वर्षन्ति मेघाः सततम्
झर झर आयान्ति वर्षाधाराः
धडाम् धुडुम् धडाम् धुडुम् गर्जन्ति ते
जलेन क्लिन्नं जातमङ्गं
धो धो धो वर्षन्ति मेघाः सततम्
झर झर आयान्ति वर्षाधाराः
धप् धप् पतन्ति जलप्रपाताः
ड्रँव् ड्रँव् कुर्वन्ति कूपमण्डूकाः
टप् टप् गायन्ति पर्णेषु बिन्दवो
पक्ववटखादने मग्ना जनाः
झर झर आयान्ति वर्षाधाराः
ड्रँव् ड्रँव् कुर्वन्ति कूपमण्डूकाः
टप् टप् गायन्ति पर्णेषु बिन्दवो
पक्ववटखादने मग्ना जनाः
झर झर आयान्ति वर्षाधाराः
नवनर्तनं कुर्वन्ति बर्हिणः
सिंहा गर्जन्ति ननु मेघनादः
सत्वरं वहन्ति सागरं नद्यः
प्राणा हि प्राणिनां वर्षाकालः
झर झर आयान्ति वर्षाधाराः
सिंहा गर्जन्ति ननु मेघनादः
सत्वरं वहन्ति सागरं नद्यः
प्राणा हि प्राणिनां वर्षाकालः
झर झर आयान्ति वर्षाधाराः
(Sanskrit poem)
0 comments:
Post a Comment