WHAT'S NEW?
Loading...

।। तरङ्गिणीपञ्चकम् ।।

।। तरङ्गिणीपञ्चकम् ।।
तरङ्गावलिस्ते बलाकैश्च भाति
सदा सर्वदेवैर्नता ते सुकीर्ति: ।
जटाजूटधारानुगन्त्री जवेन
नमो मानगङ्गे तरङ्गिण्यजाये ।।1।।
प्रभा ते जनानां सदा नन्दनीया
प्रभाते हि नानाविधप्रार्थनीया
प्रभाते कराभ्यां सदा वन्दनीया
नमः शैवगङ्गे तरङ्गिण्यजाये।।2।।

सदा चौषधीनां रसानीतगर्भा 
त्वया विश्वकल्याणवीथिर्हि भुक्ता।
जनानां मुदा पापरक्षां करोषि
नमस्ते सुगङ्गे तरङ्गिण्यजाये।।3।।
सदा शुद्धनीरा सदा पूतवीरा
शिवप्रस्थलंगामिनी या प्रसन्ना
पवित्रं हि सर्वं करोतीह नित्यं
नमः शैलकन्ये तरङ्गिण्यजाये।।4।।
सदाराधनीया सदा जीवधारा
हृदा या नरेन्द्रैः सदा पूजनीया।
चिरंजीविनि त्वं धरित्रीतलेऽस्मिन् 
नमो धन्यगङ्गे तरङ्गिण्यजाये।।5।।
।। इति श्रीहरिविरचितं तरङ्गिणीपञ्चकं सम्पूर्णम्।।

0 comments:

Post a Comment