WHAT'S NEW?
Loading...

।। देवीप्रसादपञ्चकम् ।।

।। देवीप्रसादपञ्चकम् ।।

कदाचिन्न कुर्यात्स दुष्टाभिमानः
सदा नम्रभावेन कार्यं करोति ।
जिताः सर्वलोकाः स्ववाचा हि येन
स देवीप्रसादः सुलब्धो नतेन ।।1।।
सदा नम्रवाणी मुखे राजते सा
सदा सुष्ठु हास्यं मुखे शोभते वा।
सदा यो हि कामादिशत्रूंश्च हन्ति
स देवीप्रसादः सुलब्धो नतेन ।।2।।

सदा सर्वशास्त्रेषु नित्यं रतो यः
सदा गर्भसारो ह्यधीतश्च येन ।
सदा चिन्तनं यस्य ध्यानादिसर्वम्
स देवीप्रसादः सुलब्धो नतेन ।।3।।
सदा गर्वभारः सदा दर्पवाणी
सदा दुर्विचारः सदा सर्पशीलम् ।
सदा शून्यधर्मः सदावैधकर्म
स देवीप्रसादः सुलब्धो न तेन ।।4।।
सदा चार्पिताः सर्वभावा हि येन
सदा चार्पिताः सर्वकामा हि येन
सदा सिद्धकर्मा सदा ज्ञातधर्मः
स देवीप्रसादः सुलब्धो नतेन ।।5।।
।। इति श्रीहरिविरचितं देवीप्रसादपञ्चकम् सम्पूर्णम्।।

0 comments:

Post a Comment